दीपक वात्स्य:
" वास्तविकं स्वातन्त्र्यम्" अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशतमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के स्वातन्त्र्यमलभत।स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैसेवाव्रतिनो भारतीसपुत्रा नैजान् प्राणान् अत्यजन्।तेषां राष्ट्राय हुतात्मनां त्यागशौर्यबलिदानादिकं नितरां स्मृतिपटले सदस्मदीयहृच्चेतनासु "इदं राष्ट्राय इदं न मम"इति श्रुतिवचनं स्मारयेत्तथा राष्ट्राय समर्पणभावं जागरयेदित्यादिकं लक्ष्यीकृत्य भारतसर्वकारेण तद्दिनं राष्ट्रियपर्वत्वेनोद्घुष्टमथ च समग्रभारते "स्वातन्त्रतादिवस:""स्वातन्त्र्योत्सव:" समायोज्यते।अनेन लक्ष्यीक्रियते महत्काठिन्येन यल्लब्धं स्वातन्त्र्यं तत्पुन: पारतन्त्र्ये परिवर्तितं न स्यात्।अत्र मनसि नैका: जिज्ञासा: समुद्भवन्ति।तद्यथा- १.किं नाम स्वातन्त्र्यम्? २.किमर्थं स्वातन्त्र्यम्? ३.स्वातन्त्र्यस्य वास्तविकं स्वरूपं किम्? ४.कथं वा परिरक्षितं स्याद्भारतीयं स्वातन्त्र्यम्? तत्र सर्वादौ विचारयामो वयं "किन्नाम स्वातन्त्र्यम्"।स्वातन्त्र्यमिति पदं स्वतन्त्रपदान्निष्पद्यते।यत्कृते आङ्गलभाष...