संदेश

जुलाई, 2021 की पोस्ट दिखाई जा रही हैं

श्रीकृष्णस्तुति:

चित्र
आचार्य नितिन भारद्वाज: राधेश्यामं मेघवर्णं प्रियनयनं शुभाङ्गम्, चंद्रकांतम् ओजवदनं छविरामं मनमोहनम्।  सात्विकं सुबोधं सुमनसं शुभ~शगुनम्,       वंदे श्री गोपालं ब्रह्मरूपिणं सुशान्तम्।।   बालमुकुन्दं वंशीकरं बैजंतीमालां सुशोभितम्,       रविकातं जलजमुखं मलय~करचरणं सुदर्शनम्।          केशर~ तिलकं मयूर~किरीटं शुभ्ररत्नं धारिणम्,                  वंदे श्रीगोविन्दं सोड्हम् स्वर्ण~भूषितं सुभाषितम्।।    राधारमणं ब्रह्म~शयनं छविललितं लीलाधरम्,     दयावंतं क्षमाशीलं करुण~अनुराग रूपिणम्।        प्राणाधारं प्रेम~निधानं चिरंतनं निरंतरम्,      वंदे श्री~मनमोहनं सर्व मोह~माया नाशनम्।। गिरीधरं विद्याधरं गीताधारं विश्वंभरम्,  ॐ~कारं बीजमंत्रं योगमूलं निरंजनम्।  निर्गुण~रूपं सगुण~रूपं विष्णु~रूपिणं सनातनम् वन्दे श्री~वासुदेवम् अनंत व्याप्तं जगदीश्वरम्।। योगयोगेश्वरं राजराजेश्वरं श्री~कर्ता परमेश्वरम्,   सर्व...

ज्ञानेन सर्वार्थं सिध्यति

चित्र
लेखक: - अखिलेश प्रबल: स्वर्गे स्व-स्व अधिकारं कर्त्तुं देवा। दानवः च संघर्षे कर्त्तु प्रवृताः विष्णु तान् पृथक-पृथक तेषाम् हितम् अहितं च प्राबोधयत परन्तु यदा अनुकूलः परिणामः कश्चित् नैव निःसृतः तदा एतकृते प्रतिस्पर्धाम् एकाम् आयोजयितुं। विष्णु स्वाशयं प्रकाशितवान् सःभोजध प्रतियोगिताम् आयोजयत। तत्र देवान दानवान च भोजनाय निमन्त्रितवान् कथितवान च यत् मे अत्र विजेष्यन्ते ते स्वर्गे अधिकारं करिष्यन्ति। किन्तु भोजनं कर्त्तुं कश्चित् अपि स्वकीयं कूर्परं तिरश्चीनं न कुर्यात।             दानवःपशुवत यत्र भोजनं कृत्वा आत्मनः बुद्धे मन्दतां प्रकाशितवन्तः तत्र देवाः परस्परं सम्मुखे उपविश्य  स्वहस्तेन अन्यं भोजयन्तः अन्य-हस्तेन च स्वयं भुञ्जानाः स्वबुद्धि-कौशलम् प्रदर्शितवन्तः। विष्णु देवान एव प्रतियोगितायां विजितान अघोषत ततः देवाः एव स्वर्गे अधिकारिणः सन्ति इति।।

अस्माकम्मार्गदर्शक: कथं भवेत्

चित्र
रौशन कुमार: जीवनेऽस्माकं मार्गदर्शकस्य महती भूमिकास्ति । मार्गदर्शक: केनापि - रुपेण भवितुमर्हति यथा - माता , गुरु: , पिता , मित्रमादि: ।प्रधानतया छात्रस्य जीवने भवति मार्गदर्शकस्य महती आवश्यकता , यतोहि छात्राः केवलं पठन्ति परं कथं पठनीयमस्ति , कदा किं पठनीयमस्ति , अग्रे किं कर्त्तव्यमकर्त्तव्यञ्चास्ति प्रायः छात्राः न जानन्ति । यतोहि तस्य पार्श्वेऽधुना एतावत् सामर्थ्यमेव नास्ति विशेषचिन्तनस्य । अतः बहवः छात्राः व्याकरणन्तु पठन्ति , शास्त्रन्तु पठन्ति, परीक्षायाः सज्जाङ्कुर्वन्ति, किमपि जीवने विशिष्टङ्कार्यन्तु कुर्वन्ति परन्तु सफलतान्न प्राप्नुवन्ति । तस्य कारणमस्ति मार्गदर्शकस्याभावः । छात्राः तु न जानन्ति मार्गदर्शकः किम्भवति अथ च स लज्जामपि अनुभवन्ति प्राय: । अतः मार्गदर्शक एव छात्राणां निरीक्षणङ्कुर्यात् पश्येच्च कश्छात्रो बुद्धिमानस्ति , कस्य कुत्र न्यूनतास्ति, कस्य छात्रस्य पार्श्वे सामर्थ्यमस्ति उत न एवं प्रकारेण यदि निरीक्षणं कुर्यात् तर्हि छात्रस्यात्मविश्वासो वर्धते सः चिन्तयति यदस्माकं मार्गदर्शको यत्किमपि उक्तं सोऽहं कृत्वा प्रदर्शयिष्यामि । परं एवं मार्गदर्शक: न प्राप्तुं ...

दीपक वात्स्य:

चित्र
लेखक: - दीपक वात्स्य : महाभारतपर्वनामानि आदिपर्व सभापर्व वनपर्व विराटकम्। उद्योगभीष्मके द्रोणं कर्णशल्ये च सौप्तिकम्।। स्त्रीपर्व शान्तिपर्वाख्यमानुशासनिकं तथा। अश्वमेधाश्रमे ख्याते ततो मौसलाभिधम्।। महाप्रस्थानिकं पर्व स्वर्गारोहणमेव च। व्यासोदितानि शास्त्रेऽस्मिन् पर्वाण्यष्टादश क्रमात्।।      राशिस्वरूपनिरूपणम् मेषराशिरजाकारो वृषो वृषस्वरूपक:। गदावीणाकरौ द्वन्दौ नरौ मिथुनमुच्यते।। कर्कट: कर्कटाकार: सिंह: सिंहाभिरूपक:। स्वहस्तान्नानला बाला नौस्था कन्या समुच्यते।। तुलाधारी तुलाराशिर्वृश्चिको वृश्चिकाकृति:। धनुर्धारी धनूराशिर्मकरो मकराकृति:।। सघटपुरुष: कुम्भो मीनो मत्स्यद्वयाकृति:। राशिरूपं परामृष्टं भचक्रस्यानुरूपत:।।              - दीपकवात्स्य :

श्री शङ्कराष्टकम्

चित्र
लेखक: - रविरञ्जन कुमार झा मस्तके धार्यते चन्द्र:       पाणिनिनाग्रह: प्रभु: । महाज्ञानप्रदोऽस्तु न:       श्रीशङ्कराय ते नम:।।१।।       आशुतोषो महादेव:        पाणिनिर्येन बोधित: । शिवाशिवप्रियोऽस्तु न:        श्रीशङ्कराय ते नम:।।२।। त्रिनेत्रन्धार्यते देव:         सदाकल्याणकारक: । देवदेवमहादेव:         श्रीशङ्कराय ते नम:।।३।। क्रोधेन कालसंहारी         प्रेम्णा शिवकरो भवेत्। सुशाब्दिको महादेव:         श्रीशङ्कराय ते नम:।।४।। यो भावेषु वशीभूत:           सभक्तानाम्प्रिय: शिव: । महेश्वरो महावीर:          श्रीशङ्कराय ते नम:।।५।। देवतानाम्प्रियो देव:          दुखानान्नाशकस्सदा । याचकानाङ्कृपासिन्धु:          श्रीशङ्कराय ते नम:।।६।। त्रिशूलं शोभते हस्ते           कण्ठे च बासुकिस्तथा । शिरसि शोभते गंगा ...

जलसञ्चयनम्

चित्र
लेेेखक: - बिजय  घोष: एकस्मिन् नगरे एक: बालक: वसति स्म। स सदैव जलस्यापचयं कृतवान् कारणेनाकारणेन च। एकदा स देशान्तरं गतवान्। तत्र धनं विना जलं न मिलति। परन्तु तस्य बालकस्य समीपे किमपि धनं नास्ति। यदा स बालक: तृष्णार्त: तदा एकविन्दुजलस्य कृते स यत्र तत्र जलान्वेषणं कृत्वा न मिलति स्म।तृष्णार्त: बालक: तदा अचिन्तयत् यत् देशे स अधिकं जलमपचयं करोति। जलस्य प्रयोजनं किम्? एतस्य प्रश्नस्य उत्तरं स देशान्तरे प्राप्नोति स्म। अथ स स्वनगरमागत्य जलस्य प्रयोजनं सर्वान् जनानवदत्। तद्दिनत: जलसंचयनपद्धतिद्वारा जलसंचयनं सर्वे जना: कुर्वन्ति। अतो वयमपि जलसंचयनं कुर्याम।। -------------------------------------------------------------- रचयिता - बिजय-घोष:(संस्कृतप्रेमी)। पश्चिमब‌ङ्गस्य बर्धमानजिलाया: मन्तेश्वरस्य धेनुया इति ग्रामे वसति। -------------------------------------------------------------