श्री शङ्कराष्टकम्
![]() |
| लेखक: - रविरञ्जन कुमार झा |
मस्तके धार्यते चन्द्र:
पाणिनिनाग्रह: प्रभु: ।
महाज्ञानप्रदोऽस्तु न:
श्रीशङ्कराय ते नम:।।१।।
आशुतोषो महादेव:
पाणिनिर्येन बोधित: ।
शिवाशिवप्रियोऽस्तु न:
श्रीशङ्कराय ते नम:।।२।।
त्रिनेत्रन्धार्यते देव:
सदाकल्याणकारक: ।
देवदेवमहादेव:
श्रीशङ्कराय ते नम:।।३।।
क्रोधेन कालसंहारी
प्रेम्णा शिवकरो भवेत्।
सुशाब्दिको महादेव:
श्रीशङ्कराय ते नम:।।४।।
यो भावेषु वशीभूत:
सभक्तानाम्प्रिय: शिव: ।
महेश्वरो महावीर:
श्रीशङ्कराय ते नम:।।५।।
देवतानाम्प्रियो देव:
दुखानान्नाशकस्सदा ।
याचकानाङ्कृपासिन्धु:
श्रीशङ्कराय ते नम:।।६।।
त्रिशूलं शोभते हस्ते
कण्ठे च बासुकिस्तथा ।
शिरसि शोभते गंगा
श्रीशङ्कराय ते नम:।।७।।
विराजते सदा सङ्गे
वामाङ्गे पार्वती शिवा ।
कैलाशे राजते देव:
श्रीशङ्कराय ते नम:।।८।।
पठन्ति मनसा नित्यं श्रीशङ्कराष्टकं नरा: ।
तेषु शिवकृपा नूनं भविष्यति न संशय: ।।
झाकोश:
रविरंजनकुमारझा:

टिप्पणियाँ
एक टिप्पणी भेजें