जलसञ्चयनम्


लेेेखक: - बिजय घोष:

एकस्मिन् नगरे एक: बालक: वसति स्म। स सदैव जलस्यापचयं कृतवान् कारणेनाकारणेन च। एकदा स देशान्तरं गतवान्। तत्र धनं विना जलं न मिलति। परन्तु तस्य बालकस्य समीपे किमपि धनं नास्ति। यदा स बालक: तृष्णार्त: तदा एकविन्दुजलस्य कृते स यत्र तत्र जलान्वेषणं कृत्वा न मिलति स्म।तृष्णार्त: बालक: तदा अचिन्तयत् यत् देशे स अधिकं जलमपचयं करोति। जलस्य प्रयोजनं किम्? एतस्य प्रश्नस्य उत्तरं स देशान्तरे प्राप्नोति स्म। अथ स स्वनगरमागत्य जलस्य प्रयोजनं सर्वान् जनानवदत्। तद्दिनत: जलसंचयनपद्धतिद्वारा जलसंचयनं सर्वे जना: कुर्वन्ति। अतो वयमपि जलसंचयनं कुर्याम।।

--------------------------------------------------------------
रचयिता - बिजय-घोष:(संस्कृतप्रेमी)। पश्चिमब‌ङ्गस्य बर्धमानजिलाया: मन्तेश्वरस्य धेनुया इति ग्रामे वसति।
-------------------------------------------------------------

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीकृष्णस्तुति:

आचार्य नितिन भारद्वाज:

श्री शङ्कराष्टकम्