अस्माकम्मार्गदर्शक: कथं भवेत्

रौशन कुमार:

जीवनेऽस्माकं मार्गदर्शकस्य महती भूमिकास्ति । मार्गदर्शक: केनापि - रुपेण भवितुमर्हति यथा - माता , गुरु: , पिता , मित्रमादि: ।प्रधानतया छात्रस्य जीवने भवति मार्गदर्शकस्य महती आवश्यकता , यतोहि छात्राः केवलं पठन्ति परं कथं पठनीयमस्ति , कदा किं पठनीयमस्ति , अग्रे किं कर्त्तव्यमकर्त्तव्यञ्चास्ति प्रायः छात्राः न जानन्ति । यतोहि तस्य पार्श्वेऽधुना एतावत् सामर्थ्यमेव नास्ति विशेषचिन्तनस्य । अतः बहवः छात्राः व्याकरणन्तु पठन्ति , शास्त्रन्तु पठन्ति, परीक्षायाः सज्जाङ्कुर्वन्ति, किमपि जीवने विशिष्टङ्कार्यन्तु कुर्वन्ति परन्तु सफलतान्न प्राप्नुवन्ति । तस्य कारणमस्ति मार्गदर्शकस्याभावः । छात्राः तु न जानन्ति मार्गदर्शकः किम्भवति अथ च स लज्जामपि अनुभवन्ति प्राय: । अतः मार्गदर्शक एव छात्राणां निरीक्षणङ्कुर्यात् पश्येच्च कश्छात्रो बुद्धिमानस्ति , कस्य कुत्र न्यूनतास्ति, कस्य छात्रस्य पार्श्वे सामर्थ्यमस्ति उत न एवं प्रकारेण यदि निरीक्षणं कुर्यात् तर्हि छात्रस्यात्मविश्वासो वर्धते सः चिन्तयति यदस्माकं मार्गदर्शको यत्किमपि उक्तं सोऽहं कृत्वा प्रदर्शयिष्यामि । परं एवं मार्गदर्शक: न प्राप्तुं शक्यते । यतोहि अद्यत्वे सर्वे स्व स्व कार्ये मग्नाः सन्ति कस्य पार्श्वे एतावान् समयोऽस्ति यत् सोऽन्येषां मार्गदर्शनं कुर्यात् । यदि तथा मार्गदर्शक: लभेत तर्हि स छात्रः भाग्यशाली वर्त्तते ।

                                     

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीकृष्णस्तुति:

आचार्य नितिन भारद्वाज:

श्री शङ्कराष्टकम्