अखिलेश प्रबल:


 (स्व.शिवशंकर सिंह महाभागः-पुण्यतिथि पर विशेष १३/०९/२०२१)


परिवर्तिनि संसारे मृतः को वा न जायते।

स जातो येन जातेन याति वंशः समुन्नतिम।।

अर्थात यः स्ववंशम उद्धारयति तस्यैव जन्म सार्थकम् अन्यथा परिवर्तनशीले जगति जन्म मरणे तु अपरिहार्ये एव। तत्र को विशेषः

एतादृशः एव एकः महाविभूतिः उत्तरप्रदेशे प्रान्ते मऊ जनपदे रतनपुरा क्षेत्रे हलधरपुर ग्रामे ऊनविंशति अधिकं ऊनविंशति शतं ईस्व्याः सितम्बर मासस्य द्वादश तिथौ जन्म लेभे।तद महाविभूतिः शिवशंकर सिहः आसीत।

      शिववशंकरस्य पितुः नाम यमुना प्रसाद मातुः नाम च यशोधरा आसीत। शिवशंकरःबाल्यकालादेव प्रतिभा सम्पन्नं आसीत।

          शिवशंकरस्य प्रारम्भिकी शिक्षा बलिया जनपदे एव स्थानीय विद्यालये सम्पन्ना।ततः परं इलाहाबादविश्वविद्यालये स्नातक परीक्षाम् उत्तीर्य तत्रैव विधिस्नातक एतस्यापि उपाधि लब्धवान।

           तदन्तरम् अनेन महाभागेन बलिया जनपदे एव आदर्श अधिवक्तृरुपेण मनसा कार्यं कृतम्। अधिवक्तृरूपेण शिवशंकर महोदयः प्रखररुपेण चर्चितःआसीत।तत्रापि समाज-सेवा एव मुख्य लक्ष्यम् आसीत।

           शिक्षा क्षेत्रे शिवशंकर महोदयेन अतुलनीय सेवा कृता। अनेन महाभागेन अनेकानि शिक्षण संस्थायाः स्थापना कृतवान। एतदर्थम् पूर्वाञ्चल क्षेत्रे 'मालवीय' इति नाम्नः प्रसिद्धः।

  शिवशंकर।सहकारिणः आन्दोलनस्य प्रणेता रुपेण अपि ज्ञायते।

          तपः पूतः शिवशंकरः मोक्षःन वाञ्छति स्म।

मृत्युकालात् पूर्वम् तेन-उक्तम् ''अहम् मोक्षम् न इच्छामि। अहम् दुःखतप्तानां प्राणिनाम सेवायै एकवारं पुनः जन्मग्रहणम् कर्तुं इच्छामि।

        अन्ततः ईश्वर-विधानाम् अनतिक्रम्य अशीति अधिकं ऊनविंशति शतं ईस्व्याः सितंबर मासस्य त्रयोदशः तिथौ महाप्रयाणं कृतवान्।

          युगपुरूषस्य शिवशंकर महोदयस्य कृते वयम् सर्वथा सर्वताभावेन ऋणी स्थास्यामः।।

-------------------------

                  

  अखिलेश प्रबल            (प्रवक्ता-संस्कृत)दयानन्द इण्टर कालेज,इटैली,मऊ,उ.प्र.

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीकृष्णस्तुति:

आचार्य नितिन भारद्वाज:

श्री शङ्कराष्टकम्