गीतम् ।। रोहित कौशिक:

 वयं श्रान्ताः

वयं श्रान्ताः मिथस्तर्कैर्वृथा दम्भैरहम्भावे।

बहुदेवाः, न स ह्येकः, मयि वासो न-न तीर्थे।

ईषज्ज्ञात्वा वृथा वादे ,विवादे स्म द्वेेष्टारः। वयं श्रान्ताः----

हेयं धृत्वाहर्निशं स्वाद्यं मत्वाप्यामिषम्।

मान्यानामपमानेन मत्वा मान्यः स्वं पूर्णाः।

परहितभावैर्विहीनाः स्म, मम निजो नित्यं विभजामः। बहुदेवाः----

प्रद्वेषे बहुवेशे वा दक्षाः स्वार्थपरायणाः।

स्वल्पे लाभेsकर्तव्ये हानौ हन्यास्म निश्चयम्।

कृत्वा पापान्परितः पुनः परमेशे प्रार्थिनो वयम्। बहुदेवाः------ 

वृक्षाञ्छित्वा शिशून्हत्वा बाले बालायां भेदे।

कृत्वा धर्मो नुतिस्तुत्योर्दम्भे धर्मं पालयिता।

स्रष्टुः सर्वं भित्वाsभयं गिरिकाननभेत्तारः। बहदेवाः------



टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीकृष्णस्तुति:

आचार्य नितिन भारद्वाज:

श्री शङ्कराष्टकम्