डॉ.श्रीमस्तरामशर्मावर्याय जनिवारस्य शुभकामनापद्यपञ्चकै:|| वत्सदेशराज शर्मा


संस्कृतं प्रति येषां तेऽपारनिष्ठा विशेषतः

सद्गुणै: सहितानाञ्च जन्माह्नः कामना शुभा।।१।।


श्रीमस्तरामकार्याणि विख्यातानि हिमाचले।

सर्वथा भारतीभक्त: श्रीमस्तरामपण्डित: ।।२।।


संस्कृतस्य कृते वित्तं यत्संस्कृताय सर्वदा।

श्रीमस्तरामकाले हि भवति स्म च मुख्यतः ।।३।।


संस्कृतरससम्पन्नाःक्रियास्सन्ति स्म भूतले।

अद्यापि सा स्मृतिर्नूनं मनसि मे पुनःपुनः ।।४।।


तेषामद्य महज्जन्मदिनोत्सवो हि वर्तते।

स्वास्थ्यं धनं यशोवित्तं भवितव्यं हि कामये।।५।।


©प्रणेता:-

वत्स देशराज शर्मा 

वैदिकणसंस्थापकः छोटी काशी मण्डी हिमाचलप्रदेशः।



टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीकृष्णस्तुति:

आचार्य नितिन भारद्वाज:

श्री शङ्कराष्टकम्