हिमाचलप्रदेशस्य संस्कृतशिक्षकेन प्राप्तं रसास्वाद-संस्कृतशिक्षकसम्मानम्।*
ध्यातव्यं वर्तते अमनदीप: हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकरूपेण राजकीयविद्यालये शिक्षणकार्यं कुर्वन्नस्ति।
ऑनमाध्यमेन शिक्षणे हरघरपाठशाला इत्यस्मिन्नभ्यन्तरे अपि महोदयेन श्लाघनीयं कार्यं कृतम्। तदर्थं तस्मै संस्कृतरसास्वाद: संस्थया संस्कृतशिक्षकसम्मानेन सम्मानं प्रदत्तम्।
संस्कृतरसास्वाद: संस्था सुप्रसिद्धा संस्था वर्तते या ऑनलाइनमाध्यमेन विगतषड्वर्षेभ्य: संस्कृतप्रचारं शिक्षणञ्च करोति। संस्थया विविधप्रतियोगितानाम् आयोजनं क्रियते। प्रतियोगिपरीक्षाणां सज्जतायै विविध पुस्तकानां प्रकाशनम् एवं छात्राणां ऑनलाइनमाध्यमेन सज्जतायै अपि संस्थया कार्यं क्रियते। संस्थाया: संस्थापक: अमित ओली, उत्तराखण्डत:, अध्यक्ष: शिवकुमार शर्मा "शिवा" हिमाचलप्रदेशत:, मार्गदर्शक: जगदीश डाभी गुजरातत:, उपाध्यक्ष: नितीश कुमार मिश्र: उत्तरप्रदेशत: वर्तते। संस्थाया: विविधा: सञ्चालका: सन्ति ये ऑनलाइनमाध्यमेन निःशुल्कतया संस्कृतकार्याणि कुर्वन्तीति।
रसास्वाद-संस्कृतशिक्षकसम्मानं प्राप्तुं डॉ० अमनदीप शर्मणे नैका: शुभकामना:।
टिप्पणियाँ
एक टिप्पणी भेजें