भारतीयगणतन्त्रदिनमालक्ष्य मङ्गलकामनाः'।। दीपकवात्स्य:


     भारतवर्षस्य त्रिषु प्रमुखेषु राष्ट्रियपर्वसु अन्यतमं स्थानं बिभर्ति गणतन्त्रदिवसः।इदं राष्ट्रियं पर्व प्रतिवर्षं निखिलेऽपि देशे जनवरीमासस्य षड्विंशे दिनाङ्के सोल्लासम् आयोज्यते। यतोहि अस्मिन्नेव दिवसे शासनपद्धतिरूपे "भारतीयं संविधानम्" अङ्गीकृतं स्वीकृतञ्च।वयं समेऽपि जानीम एव यद् भारतीयं संविधानं सकलेऽपि विश्वे सर्वाधिकं बृहदाकारं लिखितं संविधानं वर्तते।यस्य वैशिष्ट्यं सर्वधर्मसमानादरः, सामाजिकसमरसता, अखण्डता,भेदभावराहित्यं विश्वबन्धुत्वाख्य-उदात्तभावना च वर्तते।भारतीयसंविधाने सर्वेषां जनानां जीवनविकासाय कर्त्तव्याधिकाराणां वर्णनं विशिष्टं स्थानम् आधत्ते। तस्मादेव सम्यग् विधानं संविधानम् इति अन्वर्थं नाम उच्यते।भारतीयसंविधानानुगुणं भारते गणस्य(समूहस्य) तन्त्रम् (शासनम्/प्रधानम्) वर्तते।यत्र जनाः परस्परं मिलित्वा शासकानां चयनं कुर्वन्ति। अतः गणतन्त्रं जनशासनं जनतन्त्रं लोकतन्त्रं प्रजातन्त्रं वा उच्यते। अमेरिकादेशस्य भूतपूर्वराष्ट्रपतिना अब्राहमलिंकनवर्येण उक्तम् -

"Democracy is the of the people,by the people and for the people" अर्थात् "लोकतन्त्र जनता का,जनता के द्वारा जनता के लिए संचालित सरकार है"।

         गणतन्त्रदिवसे भारतस्य महामहिम-राष्ट्रपतिः भारतीयद्वाराख्ये(INDIA GATE) उपरि अस्माकं त्रिवर्णस्य "तिरंगा"इति राष्ट्रियध्वजस्य समुत्तोलनं करोति तत्पश्चात् राष्ट्रगानस्य गायनं भवति। ततः जलस्थलवायुसैनिकदलानां शौर्यपूर्णं सैन्यशक्तिप्रदर्शनं,विविधराज्यानां संस्थानाञ्च भारतीयसंस्कृतिविभूषिता प्रदर्शनी(झांकी) पदसञ्चलनम्(परेड) च प्रदर्श्यते।

          गणतन्त्रदिवसो भारतवासिनां हृदये आत्मगौरवभावनाया विकासं करोति, अस्माकं देशस्य गौरवगाथां बोधयति,राष्ट्राय आत्माहुतिं कुर्वतां वीराणां देशभक्तानां बलिदानं स्मारयति।येन भारतीया वयं निजराष्ट्रं प्रति जागरूका भवेम।


जयतु संस्कृतम् जयतु भारतम्।

जानातु संस्कृतं जानातु भारतम्।

संस्कृतं भारतं समर्थभारतम्।।

लेखको दीपकवात्स्य:

(दीपककुमारचौधरी)

संस्कृतशोधार्थी



टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीकृष्णस्तुति:

आचार्य नितिन भारद्वाज:

श्री शङ्कराष्टकम्