छन्दोबद्धगज़लकाव्यस्तबक:

 

डॉ० हर्षदेवमाधव:


 नास्ति (वसन्ततिलका)


           -डॉ. हर्षदेवमाधवः (अहमदाबाद:)


देहस्तु रिक्तसदने, सदने हि नास्ति । 

रात्रिर्बहिस्तु प्रसृता, शयने हि नास्ति ।


वक्त्रं विलोक्य मुकुरे करवाणि किं भोः । 

रागस्य दिव्यसुषमा वदने हि नास्ति ॥


नो साहसं हि मनसो भवनाच्च गन्तुम् । 

श्रद्धा प्रयाणसमये चरणे हि नास्ति ||


भित्त्वा तमो प्रविशति परमः प्रकाशः । 

चन्द्रो द्युतिविरहिते गगने हि नास्ति ॥


छन्दोक्षराणि गणितुं विफलः श्रमस्स्यात् । 

यत्र ध्वनेर्मधुरता कवने हि नास्ति ||


गत्वापि किं नु करवाणि तदीयवीथीम् ? 

नाम्नो निजस्य स्मरणं वचने हि नास्ति

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीकृष्णस्तुति:

आचार्य नितिन भारद्वाज:

श्री शङ्कराष्टकम्