संदेश

जनवरी, 2022 की पोस्ट दिखाई जा रही हैं

भारतीयगणतन्त्रदिनमालक्ष्य मङ्गलकामनाः'।। दीपकवात्स्य:

चित्र
     भारतवर्षस्य त्रिषु प्रमुखेषु राष्ट्रियपर्वसु अन्यतमं स्थानं बिभर्ति गणतन्त्रदिवसः।इदं राष्ट्रियं पर्व प्रतिवर्षं निखिलेऽपि देशे जनवरीमासस्य षड्विंशे दिनाङ्के सोल्लासम् आयोज्यते। यतोहि अस्मिन्नेव दिवसे शासनपद्धतिरूपे "भारतीयं संविधानम्" अङ्गीकृतं स्वीकृतञ्च।वयं समेऽपि जानीम एव यद् भारतीयं संविधानं सकलेऽपि विश्वे सर्वाधिकं बृहदाकारं लिखितं संविधानं वर्तते।यस्य वैशिष्ट्यं सर्वधर्मसमानादरः, सामाजिकसमरसता, अखण्डता,भेदभावराहित्यं विश्वबन्धुत्वाख्य-उदात्तभावना च वर्तते।भारतीयसंविधाने सर्वेषां जनानां जीवनविकासाय कर्त्तव्याधिकाराणां वर्णनं विशिष्टं स्थानम् आधत्ते। तस्मादेव सम्यग् विधानं संविधानम् इति अन्वर्थं नाम उच्यते।भारतीयसंविधानानुगुणं भारते गणस्य(समूहस्य) तन्त्रम् (शासनम्/प्रधानम्) वर्तते।यत्र जनाः परस्परं मिलित्वा शासकानां चयनं कुर्वन्ति। अतः गणतन्त्रं जनशासनं जनतन्त्रं लोकतन्त्रं प्रजातन्त्रं वा उच्यते। अमेरिकादेशस्य भूतपूर्वराष्ट्रपतिना अब्राहमलिंकनवर्येण उक्तम् - "Democracy is the of the people,by the people and for the people" अर्थात् "लोकतन्त्र जनता का,...

हिमाचलप्रदेशस्य संस्कृतशिक्षकेन प्राप्तं रसास्वाद-संस्कृतशिक्षकसम्मानम्।*

चित्र
निःशुल्क संस्कृतशिक्षणक्षेत्रे श्रेष्ठकार्याय डॉ० अमनदीपशर्मणे संस्कृतरसास्वाद: संस्थया रसास्वादसंस्कृतशिक्षकसम्मानं प्रदत्तम्। ध्यातव्यं वर्तते अमनदीप: हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकरूपेण राजकीयविद्यालये शिक्षणकार्यं कुर्वन्नस्ति।  ऑनमाध्यमेन शिक्षणे हरघरपाठशाला इत्यस्मिन्नभ्यन्तरे अपि महोदयेन श्लाघनीयं कार्यं कृतम्। तदर्थं तस्मै संस्कृतरसास्वाद: संस्थया संस्कृतशिक्षकसम्मानेन सम्मानं प्रदत्तम्।  संस्कृतरसास्वाद: संस्था सुप्रसिद्धा संस्था वर्तते या ऑनलाइनमाध्यमेन विगतषड्वर्षेभ्य: संस्कृतप्रचारं शिक्षणञ्च  करोति। संस्थया विविधप्रतियोगितानाम् आयोजनं क्रियते। प्रतियोगिपरीक्षाणां सज्जतायै विविध पुस्तकानां प्रकाशनम् एवं छात्राणां ऑनलाइनमाध्यमेन सज्जतायै अपि संस्थया कार्यं क्रियते। संस्थाया: संस्थापक: अमित ओली, उत्तराखण्डत:,  अध्यक्ष: शिवकुमार शर्मा "शिवा" हिमाचलप्रदेशत:, मार्गदर्शक: जगदीश डाभी गुजरातत:, उपाध्यक्ष: नितीश कुमार मिश्र: उत्तरप्रदेशत: वर्तते। संस्थाया: विविधा: सञ्चालका: सन्ति ये ऑनलाइनमाध्यमेन निःशुल्कतया संस्कृतकार्याणि कुर्वन्तीति। रसास्वाद-संस्क...

डॉ.श्रीमस्तरामशर्मावर्याय जनिवारस्य शुभकामनापद्यपञ्चकै:|| वत्सदेशराज शर्मा

चित्र
संस्कृतं प्रति येषां तेऽपारनिष्ठा विशेषतः सद्गुणै: सहितानाञ्च जन्माह्नः कामना शुभा।।१।। श्रीमस्तरामकार्याणि विख्यातानि हिमाचले। सर्वथा भारतीभक्त: श्रीमस्तरामपण्डित: ।।२।। संस्कृतस्य कृते वित्तं यत्संस्कृताय सर्वदा। श्रीमस्तरामकाले हि भवति स्म च मुख्यतः ।।३।। संस्कृतरससम्पन्नाःक्रियास्सन्ति स्म भूतले। अद्यापि सा स्मृतिर्नूनं मनसि मे पुनःपुनः ।।४।। तेषामद्य महज्जन्मदिनोत्सवो हि वर्तते। स्वास्थ्यं धनं यशोवित्तं भवितव्यं हि कामये।।५।। ©प्रणेता:- वत्स देशराज शर्मा  वैदिकणसंस्थापकः छोटी काशी मण्डी हिमाचलप्रदेशः।

लिखे जो खत तुझे वो तेरी याद में (संस्कृतसंस्करणम्)

चित्र
  लिखितं यत् पत्रं तत् तव स्मारणे (Sanskrit version song of Hindi film song - लिखे जो खत  तुझे जो तेरी याद में) लिखितं यत् पत्रं तत् तव स्मारणे सहस्ररङ्गानां प्रेक्षणं सञ्जातम् प्रभाते सञ्जाते सुपुष्पाण्यभवन् यत्त्रियामाऽऽयाताऽभवंश्च तारिकाः ।१। लिखितं यत् पत्रम् ----------- गीतं किं तत् मया श्रुतं  हृदि भाति किमेतत् त्वम्  कुतः काऽपि कलिः भाति  मया ज्ञातस्तु त्वं लससि  सुगन्धितो वातो वाति  लगति किं त्वम् आयासि ।२।  लिखितं यत् पत्रं तत् तव स्मारणे-----  यत्राऽस्ते त्वं तत्राप्यहम् मम हृदये त्वं वससि लक्ष्यं त्वञ्च पथिकोऽहम् जलं त्वं हि तृषार्त्तोऽहम् संसारोऽयं ममाऽस्ति त्वम् स्वर्गोऽपि मम एव त्वञ्च ।३। लिखितं यत् पत्रं तत् तव स्मारणे सहस्ररङ्गानां प्रेक्षणं सञ्जातम् प्रभाते सञ्जाते सुपुष्पाण्यभवन् यत्त्रियामाऽऽयाताऽभवंश्च तारिकाः लिखितं यत् पत्रम् ------------ रचयिता - डा.रुरुकुमारमहापात्रः अध्यापकः,पुराणेतिहासविभागः राष्ट्रीयसंस्कृतविश्वविद्यालय: तिरुपति:।