लिखे जो खत तुझे वो तेरी याद में (संस्कृतसंस्करणम्)
(Sanskrit version song of Hindi film song - लिखे जो खत तुझे जो तेरी याद में)
लिखितं यत् पत्रं तत् तव स्मारणे
सहस्ररङ्गानां प्रेक्षणं सञ्जातम्
प्रभाते सञ्जाते सुपुष्पाण्यभवन्
यत्त्रियामाऽऽयाताऽभवंश्च तारिकाः ।१।
लिखितं यत् पत्रम् -----------
गीतं किं तत् मया श्रुतं
हृदि भाति किमेतत् त्वम्
कुतः काऽपि कलिः भाति
मया ज्ञातस्तु त्वं लससि
सुगन्धितो वातो वाति
लगति किं त्वम् आयासि ।२।
लिखितं यत् पत्रं तत् तव स्मारणे-----
यत्राऽस्ते त्वं तत्राप्यहम्
मम हृदये त्वं वससि
लक्ष्यं त्वञ्च पथिकोऽहम्
जलं त्वं हि तृषार्त्तोऽहम्
संसारोऽयं ममाऽस्ति त्वम्
स्वर्गोऽपि मम एव त्वञ्च ।३।
लिखितं यत् पत्रं तत् तव स्मारणे
सहस्ररङ्गानां प्रेक्षणं सञ्जातम्
प्रभाते सञ्जाते सुपुष्पाण्यभवन्
यत्त्रियामाऽऽयाताऽभवंश्च तारिकाः
लिखितं यत् पत्रम् ------------
रचयिता - डा.रुरुकुमारमहापात्रः
अध्यापकः,पुराणेतिहासविभागः
राष्ट्रीयसंस्कृतविश्वविद्यालय: तिरुपति:।
टिप्पणियाँ
एक टिप्पणी भेजें